🚩 श्री हनुमान कृत श्रीराम स्तुति 🚩

🚩🚩🚩🔱🔱🔱🔱🚩🚩🚩
🌺🌺🌺🌺🕉🕉🕉🌺🌺🌺🌺
नमो रामाय हरये विष्णवे प्रभविष्णवे, 
आदिदेवाय देवाय पुराणाय गदाभृते |
विष्टरे पुष्पके नित्यं निविष्टाय महात्मने,
प्रहष्ट वानरानीकजुष्टपादाम्बुजाय ते ॥१॥
 
 
निष्पिष्ट राक्षसेन्द्राय जगदिष्टविधायिने,
नमः सहस्त्रशिरसे सहस्त्रचरणाय च |
सहस्त्राक्षाय शुद्धाय राघवाय च विष्णवे,
भक्तार्तिहारिणे तुभ्यं सीतायाः पतये नमः ॥२॥
 
 
हरये नारसिंहाय दैत्यराजविदारिणे,
नमस्तुभ्यं वराहाय दन्ष्ट्रोद्धृतवसुन्धर | 
त्रिविक्रमयाय भवते बलियज्ञविभेदिने,
नमो वामन रूपाय नमो मन्दरधारिणे ॥३॥
 
 
नमस्ते मत्स्यरूपाय त्रयीपालनकारिणे,
नमः परशुरामाय क्षत्रियान्तकराय ते ।
नमस्ते राक्षसघ्नाय नमो राघवरूपिणे,
महादेवमहाभीममहाकोदण्डभेदिने ॥४॥
 
 
क्षत्रियान्तकरक्रूरभार्गवत्रास​कारिणे,
नमोस्त्वहल्यासंतापहारिणे चापधारिणे ।
नागायुतबलोपेतताटकादेहहारिणे,
शिलाकठिनविस्तारवालिवक्षोविभेदि​ने ॥५॥
 
 
नमो मायामृगोन्माथकारिणेsज्ञानहारिणे,
दशस्यन्दनदु:खाब्धिशोषणागत्स्यरूपिणे ।
अनेकोर्मिसमाधूतसमुद्रमदहारिणे,
मैथिलीमानसाम्भोजभानवे लोकसाक्षिणे ॥६॥
 
 
राजेन्द्राय नमस्तुभ्यं जानकीपतये हरे,
तारकब्रह्मणे तुभ्यं नमो राजीवलोचन ।
रामाय रामचन्द्राय वरेण्याय सुखात्मने,
विश्वामित्रप्रियायेदं नमः खरविदारिणे ॥ ७॥
 
 
प्रसीद देवदेवेश भक्तानामभयप्रद,
रक्ष मां करुणासिन्धो रामचन्द्र नमोsस्तु ते ।
रक्ष मां वेदवचसामप्यगोचर राघव,
पाहि मां कृपया राम शरणं त्वामुपैम्यहम्॥८॥
 
 
रघुवीर महामोहमपाकुरु ममाधुना,
स्नाने चाचमने भुक्तौ जाग्रत्स्वप्नसुषुप्तिषु |
सर्वावस्थासु सर्वत्र पाहि मां रघुनन्दन ॥९॥
 
 
महिमानं तव स्तोतुं कः समर्थो जगत्त्रये ।
त्वमेव त्वन्महत्वं वै जानासि रघुनन्दन ॥१०॥

Comments